वांछित मन्त्र चुनें

अ॒पां पेरुं॑ जी॒वध॑न्यं भरामहे देवा॒व्यं॑ सु॒हव॑मध्वर॒श्रिय॑म् । सु॒र॒श्मिं सोम॑मिन्द्रि॒यं य॑मीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

अंग्रेज़ी लिप्यंतरण

apām peruṁ jīvadhanyam bharāmahe devāvyaṁ suhavam adhvaraśriyam | suraśmiṁ somam indriyaṁ yamīmahi tad devānām avo adyā vṛṇīmahe ||

पद पाठ

अ॒पाम् । पेरु॑म् । जी॒वऽध॑न्यम् । भ॒रा॒म॒हे॒ । दे॒व॒ऽअ॒व्य॑म् । सु॒ऽहव॑म् । अ॒ध्व॒र॒ऽश्रिय॑म् । सु॒ऽर॒श्मिम् । सोम॑म् । इ॒न्द्रि॒यम् । य॒मी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥ १०.३६.८

ऋग्वेद » मण्डल:10» सूक्त:36» मन्त्र:8 | अष्टक:7» अध्याय:8» वर्ग:10» मन्त्र:3 | मण्डल:10» अनुवाक:3» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अपां पेरुम्) आत्मजनों के पालक (जीवधन्यम्) जीव-मनुष्य धन्य-सफल लक्ष्यवाले जिसके आधार पर हो जाते हैं, उस (देवाव्यम्) मुमुक्षुओं के द्वारा प्राप्त करने योग्य (सुहवम्) उत्तम स्तुत्य (अध्वरश्रियम्) अध्यात्मयज्ञ के श्रीभूत परमात्मा को (भरामहे) हम धारण करें-हम उसकी उपासना करें तथा (सुरश्मिं सोमम्-इन्द्रियं यमीमहि) उस सुन्दर ज्ञान-आनन्दरूप रश्मिवाले शान्तरूप परमात्मा को अपने मन में नियत करें-बिठाएँ। आगे पूर्ववत् ॥८॥
भावार्थभाषाः - परमात्मा आप्त जनों का पालक, जीवन का लक्ष्यपूरक, मुमुक्षुओं द्वारा प्राप्त करने योग्य-अध्यात्मयज्ञ का श्रीभूत और ज्ञानानन्द का प्रसारक है, ऐसा मन में निश्चय करके उसकी उपासना करनी चाहिये ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अपां पेरुम्) आप्तजनानां पालकम् “मनुष्या वा आपश्चन्द्राः” [श० ७।३।१।२७] (जीवधन्यम्) जीवा मनुष्या धन्याः सफललक्ष्या यस्मिन् तं तथाभूतम् (देवाव्यम्) मुमुक्षुभिः प्राप्यम् (सुहवम्) सुष्ठु प्राप्तव्यम् (अध्वरश्रियम्) अध्यात्मयज्ञस्य श्रीभूतम् (भरामहे) धारयेम-उपास्महे (सुरश्मिं सोमम्-इन्द्रियं यमीमहि) तं सुन्दरज्ञानानन्दरश्मिमन्तं शान्तपरमात्मानम्-“इन्द्रिये सप्तम्यर्थे प्रथमा व्यत्ययेन” मनसि “इन्द्रियं मनः प्रभृतीन्द्रियमात्रम्” [यजु० २१।४४। दयानन्दः] नियतं कुर्मः (तद्देवा०) अग्रे पूर्ववत् ॥८॥